ये धर्मा हेतु
ये धर्मा हेतु-प्रभवा हेतुं तेषां तथागतो ह्यवदत् तेषां च यो निरोध एवं वादी महाश्रमण
I know I am not here but stillRandsome stuff
Actualy stuff- 𐬠𐬋𐬙𐬀𐬠𐬁𐬴𐬁𐬌𐬌𐬁𐬨
- Norma
- మహాశ్రమణ
(ख) संस्कृतपाठः भारतीयभाषायाम्-आर्यत्रिरत्नानुस्मृतिसूत्रम् भोटभाषायाम्-फग्स्-पा-दकोन्-म्च्छोग्-ग्सुम्-जेस्-सु-ड्रन्-पा-म्दो नमः सर्वबुद्धबोधिसत्त्वेभ्यः (बुद्धानुस्मृतिः) इत्यपि बुद्धो भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति। निष्यन्दः स तथागतः पुण्यानाम्, अविप्रणाशः कुशलमूलानाम्, अलङ्कृतः क्षान्त्या, आलयः पुण्यनिधानानाम्, चित्रितोऽनुव्यञ्जनैः कुसुमितो लक्षणैः, प्रतिरूपो गोचरेण, अप्रतिकूलो दर्शनेन, अभिरतिः श्रद्धा(शुद्धा)धिमुक्तानाम्, अनभिभूतः प्रज्ञया, अनवमर्दनीयो बलैः, शास्ता सर्वसत्त्वानाम्, पिता बोधिसत्त्वानाम्, राजा आर्यपुद्गलानाम्, सार्थवाहः निर्वाणनगरसम्प्रस्थितानाम्, अप्रमेयो ज्ञानेन, अचिन्त्यः प्रतिभानेन, विशुद्धः स्वरेण, आस्वदनीयो घोषेण, असेचनको रूपेण, अप्रतिसमः कायेन, अलिप्तः कामैः, अनुपलिप्तो रूपैः असंसृष्ट आरूप्यैः, विप्रमुक्तः स्कन्धेभ्यः, विसम्प्रयुक्तो धातुभिः, संवृत आयतनैः, प्रच्छिन्नो ग्रन्थैः, विमुक्तः परिदाघ्नैः, परिमुक्तस्तृष्णया, ओघादुत्तीर्णः परिपूर्णो ज्ञानेन, प्रतिष्ठितोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने, अप्रतिष्ठितो निर्वाणे, स्थितो भूतकोट्याम्, स्थितः सर्वसत्त्वालोकनीयायां भूमौ, सर्व इमे तथागतानां विशेषतः सम्यग् गुणाः। (धर्मानुस्मृतिः) सद्धर्मस्तु आदौ कल्याणः, मध्ये कल्याणः, पर्यवसाने कल्याणः, स्वर्थः सुव्यञ्जनः, केवलः, परिपूर्णः, परिशुद्धः, पर्यवदातः, स्वाख्यातः भगवतो धर्मः, सान्दृष्टिकः, निर्ज्वरः, आकालिकः, औपनायिकः, ऐहिपश्यिकः, प्रत्यात्मवेदनीयो विज्ञैः, स्वाख्यातो भगवतो धर्मविनयः सुप्रवेदितः नैर्याणिकः, संबोधिगामी, अभिन्नः संस्तूपः, सप्रतिशरणः, छिन्नप्लोतिकः। (संघानुस्मृतिः) सुप्रतिपन्नो भगवत आर्यसंघः, न्यायप्रतिपन्नः, ऋजुप्रतिपन्नः, सामीचीप्रतिपन्नः, अञ्जलीकरणीयः, सामीचीकरणीयः, पुण्यश्रीक्षेत्रः, महादक्षिणापरिशोधकः, प्राहवनीयः, आहवनीयः। ॥ आर्यत्रिरत्नानुस्मृतिसूत्रं समाप्तम्॥
शास्त्राणि यानि प्रचलन्ति मनुष्यलोकेसंख्या लिपिश्च गणनापि च धातुतन्त्रम्।
ये शिल्पयोग पृथु लौकिक अप्रमेयाः
तेष्वेषु शिक्षितु पुरा बहुकल्पकोट्यः॥१॥
किं तू जनस्य अनुवर्तनतां करोति
लिपिशालमागतु सुशिक्षितु शिष्यणार्थम्।
परिपाचनार्थ बहुदारक अग्रयाने
अन्यांश्च सत्त्वनयुतानमृते विनेतुम्॥२॥
लोकोत्तरेषु चतुसत्यपथे विधिज्ञो
हेतुप्रतीत्यकुशलो यथ संभवन्ति।
यथ चानिरोधक्षयु संस्थितु शीतिभावः
तस्मिन्विधिज्ञ किमथो लिपिशास्त्रमात्रे॥३॥
नेतस्य आचरिय उत्तरि वा त्रिलोके
सर्वेषु देवमनुजेष्वयमेव जेष्ठः।
नामापि तेष लिपिनां न हि वित्थ यूयं
यत्रेषु शिक्षितु पुरा बहुकल्पकोट्यः॥४॥
सो चित्तधार जगतां विविधा विचित्रा
एकक्षणेन अयु जानति शुद्धसत्त्वः।
अदृश्यरूपरहितस्य गतिं च वेत्ति
किं वा पुनोऽथ लिपिनोऽक्षरदृश्यरूपाम्॥५॥
इत्युक्त्वा स देवपुत्रो बोधिसत्त्वं दिव्यैः कुसुमैरभ्यर्च्य तत्रैवान्तर्दधे। त